|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.268. अध्यायः 268
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति धार्मिकाधार्मिकाणां स्वर्गनरकप्राप्तिप्रतिपादनम्॥ 1 ॥ तता साध्वसाधुजनकक्षणाभिधानपूर्वकं सामान्यतो नानाधर्मप्रतिपादनम्॥ 3 ॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
ये च धर्ममसूयन्ते ये चैनं पर्युपासते।
ब्रवीतु मे भवानेतत्क्व ते गच्छन्ति तादृशाः॥ 13-268-1(92124)
भीष्म उवाच। 13-268-2x(7714)
रजसा तमसा चैव समवस्तीर्णचेतसः।
नरकं प्रतिपद्यन्ते धर्मविद्वेषिमो जनाः॥ 13-268-2(92125)
ये तु धर्मं महाराज सततं पर्युपासते।
सत्यार्जवपराः सन्तस्ते वै स्वर्गभूजो नराः॥ 13-268-3(92126)
धर्म एव रतिस्तेषामाचार्योपासनाद्भवेत्।
देवलोकं प्रपद्यन्ते ये धर्मं पर्युपासते॥ 13-268-4(92127)
मनुष्या यदि वा देवाः शरीरमुपताप्य वै।
धर्मिणः सुखमेधन्ते लोभद्वेषविवर्जिताः॥ 13-268-5(92128)
प्रथमं ब्रह्म्णः पुत्रं धर्ममाहुर्मनीषिणः।
धर्मिणः पर्युपासन्ते फलं पक्वमिवाशिनः॥ 13-268-6(92129)
युधिष्ठिर उवाच। 13-268-7x(7715)
असाधोः कीदृशं शीलं साधोश्चैव तु कीदृशम्।
ब्रवीतु मे भवानेतत्सन्तोऽसन्तश्च कीदृशाः॥ 13-268-7(92130)
भीष्म उवाच। 13-268-8x(7716)
दुराधाराश्च दुर्धर्षा दुर्मुखाश्चाप्यसाधवः।
साधवः शीलसम्पन्नाः शिष्टाचारस्य लक्षणम्॥ 13-268-8(92131)
राजमार्गे गवां मध्ये जनमध्ये च धर्मिणः।
नोपसेचन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः॥ 13-268-9(92132)
पञ्चानां यजनं कृत्वा शेषमश्नन्ति साधवः।
न जल्पन्ति च भुञ्जाना न निद्रान्त्यार्द्रपाणयः॥ 13-268-10(92133)
चित्रभानुमपां देवं गोष्ठं चैव चतुष्पथम्।
ब्राह्मणं धार्मिकं वृद्धं ये कुर्वन्ति प्रदक्षिणम्॥ 13-268-11(92134)
वृद्धानां भारतप्रानां स्त्रीणां बालातुरस्य च।
ब्राह्मणानां गवां राज्ञां पन्थानं ददते च ये॥ 13-268-12(92135)
अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च।
`सामान्यं भोजनं कुर्यात्स्वयं नाग्र्यशनं व्रजेत्॥ 13-268-13(92136)
न सत्यार्जवधर्मस्य तुल्यमन्यच्च विद्यते।
बहुला नाम गौस्तेन गतिमग्र्यां गता किल॥ 13-268-14(92137)
मुनिशापाद्द्विजः कश्चिद्व्याघ्रतां समुपागतः।
बहुलां भक्षणरुचिरास्वाद्य शपथेन तु॥ 13-268-15(92138)
विमुच्य पीतवत्सां तां दृष्ट्वा स्मृत्वा पुरातनम्।
जगाम लोकानमलान्सा स्वराष्ट्रं तथा पुनः॥ 13-268-16(92139)
तस्मात्सत्यार्जवरतो राजन्राष्ट्रं समानवम्।
तारयित्वा सुखं स्वर्गं गन्तासि भरतर्षभ॥ 13-268-17(92140)
तथा शरणकामानां गोप्ता स्यात्स्वागतप्रदः॥
सायं प्रातर्मनुष्याणामशनं देवनिर्मितम्। 13-268-18(92141)
नान्तरा भोजनं दृष्टमुपवासविधिर्हि सः॥
होमकाले यथा वह्निः काले होमं प्रतीक्षते। 13-268-19(92142)
ऋतुकाले तथाऽऽधानं पितरश्च प्रतीक्षते।
नान्यदा गच्छते यस्तु ब्रह्मचर्यं च तत्स्मृतम्॥ 13-268-20(92143)
अमृतं ब्राह्मणा गाव इत्येतत्त्रयमेकतः।
तस्मादोब्राह्मणान्नित्यमर्चयेत यथाविधि॥ 13-268-21(92144)
यजुषां संस्कृतं मांसमुपभुञ्जत दुष्यति।
पृष्ठमांसं वृथामांसं पुत्रमांसं च तत्समम्॥ 13-268-22(92145)
स्वदेशे परदेशे वाऽप्यतिथिं नोपवासयेत्।
कर्म वै सफलं कृत्वा गुरुणां प्रतिपादयेत्॥ 13-268-23(92146)
गुरुभ्यस्त्वासनं देयमभिवाद्याभिपूज्य च।
गुरुमभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया॥ 13-268-24(92147)
वृद्धान्नाभिभवेज्जातु न चैतान्प्रेषयेदिति।
नासीनः स्यात्स्थितेष्वेवमायुरस्य न रिष्यते॥ 13-268-25(92148)
न नग्रामीक्षते नारीं न नग्रान्पुरुषानपि।
मैथुनं सततं गुप्तं तपश्चैव समाचरेत्॥ 13-268-26(92149)
तीर्थानां गुरवस्तीर्थं शुचीनां हृदयं शुचि।
दर्शनानां परं ज्ञानं सन्तोषः परमं सुखम्॥ 13-268-27(92150)
सायं प्रातश्च वृद्धानां शृणुयात्पुष्कला गिरः।
श्रुतमाप्नोति हि नरः सततं वृद्धसेवया॥ 13-268-28(92151)
स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत्।
यच्छेद्वाङ्मनसी नित्यमिन्द्रियाणि तथैव च॥ 13-268-29(92152)
संस्कृतं पायसं नित्यं यावकं कृसरं हविः।
अष्टकाः पितृदैवत्या ग्रहाणामभिपूजनम्॥ 13-268-30(92153)
श्मश्रुकर्मणि मङ्गल्यं क्षुतानामभिनन्दनम्।
व्याधितानां च सर्वेषामायुषामभिनन्दनम्॥ 13-268-31(92154)
न जातु त्वमिति ब्रूयादापन्नोपि महृत्तरम्।
त्वंकारो वा वधो वेति विद्वत्सु न विशिष्यते।
अवराणां समानानां शिष्याणां च समाचरेत्॥ 13-268-32(92155)
पापमाचरते नित्यं हृदयं पापकर्मणाम्।
ज्ञानपूर्वकृतं कर्म च्छादयन्ते ह्यसाधवः॥ 13-268-33(92156)
ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने।
न मां मनुष्याः पश्यन्ति न मां पश्यन्ति देवताः॥ 13-268-34(92157)
पापेनाभिहितः पापः पापमेवाभिजायते॥ 13-268-35(92158)
यथा वार्धुषिको वृद्धिं दिनभेदे प्रतीक्षते।
धर्मेण पिहितं पापं धर्ममेवाभिवर्धयेत्॥ 13-268-36(92159)
यथा लवणमम्भोभिराप्लुतं प्रविलीयते।
प्रायश्चित्तहतं पापं तथा सद्यः प्रणश्यति॥ 13-268-37(92160)
तस्मात्पापं न गूहेत गूहमानं विवर्धते।
कृत्वा तु सादुष्वाख्यायाधर्मं प्रशमयन्त्युत॥ 13-268-38(92161)
आशया सञ्चितं द्रव्यं स्वकाले नोपभुज्यते।
अन्ये चैतत्प्रद्यन्ते वियोगे तस्य देहिनः॥ 13-268-39(92162)
`तद्धर्मसाधनं नित्यं सङ्कल्पाद्धनमार्जयेत्।'
मननं सर्वभूतानां धर्ममाहुर्मनीषिणः। 13-268-40(92163)
तस्मात्सर्वाणि भूतानि धर्ममेव समासते॥
एक एव चरेद्धर्मं न धर्मध्वजिको भवेत्। 13-268-41(92164)
धर्मवाणिजका ह्येते ये धर्ममुपभुञ्जते॥
अर्चेद्देवानदम्भेन सेवेताऽमायया गुरून्। 13-268-42(92165)
धनं निदध्यात्पात्रेषु परत्रार्थं समावृतम्॥ ॥ 13-268-43(92166)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टषष्ट्यधिकद्विशततमोऽध्यायः॥ 268 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-268-7 कीदृशाः किलक्षणाः॥ 7-268-9 सर्गं उत्सर्गम्॥ 7-268-10 पञ्चनां देवपितृभूतातिथिकुटुम्बानाम्॥ 7-268-20 ऋतुकाले तथा नारी ऋतुमेव प्रतीक्षते इति झ.पाठः। नचान्यां गच्छते यस्तु ब्रह्मचर्यं च तस्य तत् इति क.ट.थ. पाठः॥ 7-268-23 कर्म अध्ययनम्। प्रतिपादयेत् दक्षिणामिति शेषः॥ 7-268-25 वृद्धान्नातिवदेज्वात्विति क.ट.थ.पाठः॥ 7-268-29 दक्षिणं पाणिं उद्धरेत् यज्ञोपवीती भवेत्॥ 7-268-31 मङ्गत्यं मङ्गलवचनम्। अभिनन्दनं शतं जीवेति वचनेन सुखोत्पादनं च। कुर्यादिति शेषः॥ 7-268-32 त्वंकारो वा वदस्वेतीति क.ट.थ.पाठः॥ 7-268-41 धर्मध्वजिकस्तत्प्रकाशकः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|